Bhagavad Gīta Bhāshya and Tātparya
B.G 6.20,22, and 23
यत्रोपरमते चित्तं निरुद्धं योगसेवया। यत्र चैवात्मनाऽत्मानं पश्यन्नात्मनि तुष्यति ॥२०॥
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतींद्रियम्। वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥२१॥
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः। यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥२२॥
तं विद्याद् दुःखसंयोगवियोगं योगसञ्ज्ञितम्। स निश्चयेन योक्तव्यो योगो निर्विण्णचेतसा ॥२३॥
Gīta Bhāshya 6.20-23
आत्मना मनसा। आत्मनि देहे। आत्मानं भगवन्तं पश्यन्॥२०॥
तत्वतः भगवद्रुपात।॥२१॥
दुःखसंयोगो येन वियुज्यते स दुःखसंयोग वियोगः। न केवलम् उत्पन्नदुःखं नाशयति, उत्पत्तिमेव निवारयति इति दर्शयति संयोगशब्देन। निश्चयेन योक्तव्यः योक्तव्य एव तद्बुभूषुणा इत्यर्थः ॥२३॥
Gīta Tātparya 6.20-23
आत्मानं विष्णुम्। आत्मना तत्प्रसादेन ॥२०॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.