B.G 6.03
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते। योगारूढस्य तस्यैव शमः कारणमुच्यते ॥३॥
Gīta Bhāshya 6.03
कियत्कालं कर्म कर्तव्यम् इत्यत आह - आरुरुक्षोर्मुनेः इति।
योगम् आरुरुक्षोः उपायसम्पूर्तिम् इच्छोः।योगं आरूढस्य सम्पूर्णोपायस्य। अपरोक्षज्ञानिनः इत्यर्थः। कारणं परमसुखकारणम्। अपरोक्षज्ञानिनोऽपि समाध्यादिफलम् उक्तम्। तस्य सर्वोपशमेन समाधिरेव कारणं प्राधान्येन इत्यर्थः। तथापि यदा भोक्तव्योपरमः तदैव सम्यग् असम्प्रज्ञातसमाधिः जायते। अन्यदा तु भगवच्चरितादौ स्थितिः। तच्चोक्तम्-
"ये त्वां पश्यन्ति भगवंस्त एव सुखिनः परम्। तेषामेव तु सम्यक्च समाधिर्जायते नृणाम्॥
भोक्तव्यकर्मण्यक्षीणे जपेन कथयाऽपि वा। वर्तयन्ति महात्मानः त्वद्भक्तास्त्वत्परायणाः॥"
इति ॥३॥
Gīta Tātparya 6.03
सम्पूर्णोपायो योगारूढः।
"नानाजनस्य शुश्रूषा कर्माख्या करवन्मितेः। योगार्थिना तु सा कार्या योगस्थेन हरौ स्थितिः॥
तेनापि स्वोत्तमानां तु कार्याऽन्यैरखिलेष्वपि। शक्तितः करणीयेति विशेषोऽसिद्धसिद्धयोः। प्राप्तोपायस्तु सिद्धः स्यात् प्रेप्सुः साधक उच्यते॥
तस्य प्राण्युपकारेण सन्तुष्टो भवतीश्वरः। सिद्धोपायेन विष्णोस्तु ध्यानव्याख्यार्चनादिकम्। कार्यं नान्यत् तस्य तेन तुष्टो भवति केशवः॥"
इति प्रवृत्तवचनान्न विरोधः।
"शमो मन्निष्ठता बुद्धेः दम इंद्रियनिग्रहः।"
इति भागवते ॥३॥