Bhagavad Gīta Bhāshya and Tātparya
B.G 5.24
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः। स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥२४॥
Gīta Bhāshya 5.24
ज्ञानिलक्षणं प्रपञ्चयति उत्तरैः श्लोकैः।आरामः परदर्शनादिनिमित्तं सुखम्। अत्र तु परमात्मदर्शनादि निमित्तं तत्। सुखं तु उपद्रवक्षये व्यक्तम्। अत्र तु कामादिक्षये व्यक्तम् आत्मनः सुखम्। स्वयम् ज्योतिष्ट्वात् भगवतः। तद्व्यक्तेः अन्तर्ज्योतिः। सर्वेषाम् अन्तर्ज्योतिष्ट्वेऽपि व्यक्तेर्विशेषः। असम्प्रज्ञातसमाधीनां बाह्यादर्शनात्। दर्शनेऽपि अङ्किचित्करत्वात् एवशब्दः। उक्तं चैतत्-
"दर्शनस्पर्शसम्भाषादयात्सुखं जायते नृणाम्। आरामः स तु विज्ञेयः सुखं कामक्षयोदितम्॥"
इति नारदीये।
"स्वज्योतिष्ट्वान्महाविष्णोरन्तर्ज्योतिस्तु तत्स्थितः।"
इति च।
अन्तःसुखादेः कारणमाह - ब्रह्मणि भूत इति ॥२४॥
Gīta Tātparya 5.24
ब्रह्मणि भूतः। अन्यथा पुनः ब्रह्म गच्छतीति विरोधाच्च। अन्तःसुखादिकं च ब्रह्मदर्शनात् ॥२४॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.