Bhagavad Gīta Bhāshya and Tātparya
B.G 5.21
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम्। स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥२१॥
Gīta Bhāshya 5.21
सन्यास योग ज्ञानानि मिलित्वा प्रपञ्चयति अध्याय शेषेण।
पुनः योगस्य आधिक्यं स्पष्टयति - बाह्यस्पर्शेषु इति।
कामरहितः आत्मनि यत् सुखं विन्दति स एव ब्रह्मयोगयुक्तात्मा चेत् तदेव अक्षयं सुखं विन्दति। ब्रह्मविषयो योगः ब्रह्मयोगः। ध्यानादियुक्तस्यैव आत्मसुखम् अक्षयम्। अन्यथा नेत्यर्थः ॥२१॥
Gīta Tātparya 5.21
इदानीमपि परमात्मनि स्मृऽतमात्रे सुखं विन्दतीति यत् तदा स एव सम्यगुक्तः किमु ॥२१॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.