B.G 5.14
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः। न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥१४॥
Gīta Bhāshya 5.14
न च करोति वस्तुतः इत्याह - न कर्तृत्वम् इति। प्रभुर्हि जीवो जडमपेक्ष्य ॥१४॥
Gīta Tātparya 5.14
यथा पितॄदत्तं पालकत्वं राजपुत्राणाम् एवं परमात्मदत्तं क्रियास्वातन्त्र्यलक्षणं कर्तृत्वम्। क्रियानिष्पन्नधर्मादिरूपकर्मणि स्वातन्त्र्यं च जीवानामप्यस्तीति आशङ्कां परिहरति - न कर्तृत्वमित्यादिना॥
क्रियायामदृष्टोत्पादने फले च स्वातन्त्र्यं लोकस्य न सृजति ईश्वरः इत्यर्थः। अन्यथा लोकस्य इति विशेषणं व्यर्थम्।
जनपदे निवसतां तद्वित्तभोजिनामपि आधिपत्यादानात् न दत्ता जनपदा राज्ञा स्वपुत्राणामितिवत् कर्मफलादिसंयोगिनाऽमपि तत्स्वातन्त्र्यादानात् न सृजतीति युज्यते।
स्वयमेव भवति भावयति चेति स्वभावो भगवान्। स्वभावत्वात् स्वयमेव कर्तृत्वादिषु प्रवर्तते।
"स्वातन्त्र्यात् भगवान् विष्णुः स्वभाव इति कीर्तितः। तत्स्वातन्त्र्यं कदाऽप्येषः नान्यस्य सृजति क्वचित्॥
स्वातन्त्र्यादेव पापादिसम्बन्धः कुर्वतोऽपि न। अज्ञानावृतबुद्धित्वादीदृशं तं न जानते॥"
इति महावाराहे।
"अहं सर्वस्य प्रभवः।"
"तपाम्यहमहं वर्षं निगृह्णामि।"
"परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च।"
"न ऋते त्वत्क्रियते किञ्चिनारे।"
"देवस्यैष स्वभावोऽयम्।"
"लोकवत्तु लीलाकैवल्यम्।"
इत्यादेः न अस्य अस्वाभाविकं कर्तृत्वम् अकर्तृत्वं वा। विपरीतप्रमाणाभावाच्च।
अनिर्वाच्यनिरासादेव च निरस्तोयं पक्षः। न च सर्वविशेषराहित्यवादिनां शून्यवादात् कश्चित् विशेषः। न हि सर्वविशेषरहितमित्युक्ते तदस्तीति सिद्ध्यति। वाच्यत्व लक्ष्यत्वास्तित्वादीनामपि विशेषत्वात्। अन्यथा अस्ति ब्रह्मेत्यादीनां शब्दानामपि पर्यायत्वादयो दोषाः।
व्यावर्त्यविशेषश्च व्यावृत्तविशेषनिबन्धन एव। अन्यथा वैयर्थ्यमेव स्यात्।
स्वप्रकाशत्वं च न अमानं सिद्ध्यति। स्वयम् प्रकाशत्वं च ततोऽतिरिक्तं चेत् विशेषाङ्गीकारः। न चेत् तदेव प्रमाणगोचरम् तत्प्रमाणाभावे। परप्रकाशत्व मात्रनिरासे स्वप्रकाशत्वे प्रमाणाभावादप्रकाशत्वमेव स्यात्। अर्थतः सिद्धिरिपि अर्थापत्तितः सिद्धिः तत्प्रमाणतः सिद्धिर्वा उभयथापि प्रमेयत्वमेव स्यात्।
स्वप्रकाश शब्देन स्वमितत्वानङ्गीकारात् परमितत्वानङ्गीकाराच्च असिद्धिरेव। प्रकाश इत्युक्तेऽपि स्वमन्यं वा किञ्चित् प्रकाश्यं विना न दुष्ट एव भोजनादिवत्। कर्तृकर्मविरोधश्च अनुभवविरुद्धः। ज्ञानं च ज्ञेयं ज्ञातारं च विना न दृष्टम्। अतः शून्यवादात् न कश्चित् विशेषः। अतः अनन्तदोषदुष्टत्वात् उपरम्यते।
हरिः स्वभावतः कर्ता सर्वमन्यत् तदीरितम्। अतः सा कर्तृता तस्य न कदाचित् विनश्यति॥
इति पैङ्गिश्रुतिः।