Bhagavad Gīta Bhāshya and Tātparya
B.G 4.24
ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम्। ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥२४॥
Gīta Bhāshya 4.24
ज्ञानावस्थितचेतस्त्वं स्पष्टयति - ब्रह्मार्पणम् इति। सर्वम् एतत् ब्रह्मेति उच्यते तदधीनसत्ताप्रतीतित्वात्। न तु तत्स्वरूपत्वात्। उक्तं हि-
"त्वदधीनं यतः सर्वम् अतः सर्वो भवानिति। वदन्ति मुनयः सर्वे न तु सर्वस्वरूपतः॥"
इति पाद्मे।
"सर्वं तत्प्रज्ञानेत्रम्"
इति च।
"एतं ह्येव बह्वृचाः"
इत्यादि च।
समाधिना सह ब्रह्मैव कर्म ॥२४॥
Gīta Tātparya 4.24
कथमभिमानत्यागः - ब्रह्मार्पणमित्यादि। ब्रह्मण्यर्पणं ब्रह्मार्पणम्। ब्रह्मणो हविः। ब्रह्मणः अग्नौ। ब्रह्मणः कर्म समाधिना सह। समाधिरपि तदधीना इत्यर्थः।
"एकः स्वतन्त्रो भगवान् तदीयं त्वन्यदुच्यते।"
इति भारते ॥२४॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.