Bhagavad Gīta Bhāshya and Tātparya
B.G 4.18
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः। स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥१८॥
Gīta Bhāshya 4.18
कर्मादिस्वरूपमाह - कर्मणीति।
कर्मणि क्रियमाणे सति अकर्म यः पश्येत् 'विष्णोरेव कर्म नाहं चित्प्रतिबिम्बः किञ्चित् करोमि' इति।
अकर्मणि सुप्त्यादौ अकरणावस्थायां परमेश्वरस्य कर्म यः पश्यति 'अयमेव परमेश्वरः सर्वदा सर्वसृष्ट्यादि करोति' इति।
स बुद्धिमान् ज्ञानी । स एव च युक्तो योगयुक्तः। सर्वाकरणात् स एव च कृत्स्नकर्मकृत् कृत्स्नफलत्वात् ॥१८॥
Gīta Tātparya 4.18
कर्मणि जीवे। अस्वातन्त्र्यादकर्म। कर्मविधिफलयोरभावात् अकर्मणि विष्णौ स्वातन्त्र्यात् सर्वकर्तृत्वम्।
"करोऽस्मिन् मीयत इति कर्म जीव उदाहृतः। विधिशब्देनामितत्वात् अकर्म भगवान् हरिः॥"
इति नारदीये।
कर इति सकारान्तः अदृष्टवाची। क्रियावाची वा। तदधीनत्वात्। प्रसिद्धश्च जीवे कर्मशब्दः पञ्चरात्रे। कृत्स्नफलवत्वात् कृत्स्नकर्मकृत् ॥१८॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.