Bhagavad Gīta Bhāshya and Tātparya
B.G 4.11
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्। मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥११॥
Gīta Bhāshya 4.11
न च मद्भजनमात्रेण मुक्तिः भवति अन्यदेवतादिरूपेण। तथापि सर्वेषाम् अनुरूप्येण फलं ददामि इत्याह - ये यथा इति॥
भजामि सेवयामि फलदानेन। न तु गुणभावेन। कथमयं विशेष इत्यत आह - मम वर्त्मेति॥
अन्यदेवताः यजन्तोऽपि मम वर्त्मैव अनुवर्तन्ते। सर्वकर्मकर्तृत्वात् भोक्तृत्वाच्च मम।
"योऽप्यन्यदेवता भक्ताः।"
इति वक्ष्यति।
"यो देवानां नामधा एक एव"
इति हि श्रुतिः।
भगवानेव च तत्र अभिधीयते।
"अजस्य नाभौ अध्येक मर्पितम्"
इत्यादि तल्लिङ्गात् ॥११॥
Gīta Tātparya 4.11
तथैव भजामि तदनुसारिफलदानरूपेण। अन्यदेवतायाजिनामपि मत्समर्पणेन वैष्णवमार्गानुवर्तनेनैव सम्यक् फलं भवति।
अन्यदैवतपूजाऽपि यस्मिन्नन्ते समर्पिता। स्वर्गादिफलहेतुः स्यात् नान्यथा तं भजेद्धरिम्॥
इत्याग्नेये ॥११-१२॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.