B.G 3.42 and 43
इंद्रियाणि पराण्याहुरिंद्रियेभ्यः परं मनः। मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥४२॥
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना। जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥४३॥
Gīta Bhāshya 3.42 and 43
शत्रुहनन आयुधरूपं ज्ञानं वक्तुं ज्ञेयम् आह - इंद्रियाणीति॥
"असङ्गज्ञानासिमादाय तरातिपारम्"
इति ह्युक्तम्।
शरीरात् इन्द्रियाणि पराणि उत्कृष्टानि। न केवलं बुद्धेः परः। श्रुत्युक्तप्रकारेण अव्यक्तादपि।
"अव्यक्तात् पुरुषः परः"
इति श्रुतिः।
न च तत्र तत्रोक्त ऐकदेशज्ञानमात्रेण भवति मुक्तिः। सार्वत्रिकगुणोपसंहारो हि भगवता गुणोपसंहार पादे अभिहितः-
"आनन्दादयः प्रधानस्य" (३.३.१२)
इत्यादिना।
तथा चान्यत्र-
"अपौरुषेयवेदेषु विष्णुवेदेषु चैव हि। सर्वत्र ये गुणाः प्रोक्ताः सम्प्रदायागताश्च ये। सर्वैस्तैः सह विज्ञाय ये पश्यन्ति परं हरिम्। तेषामेव भवेन्मुक्तिः नान्यथा तु कथञ्चन॥"
इति गारुडे।
तस्मात् अव्यक्तादपि परत्वेन ज्ञेयः। न चात्र जीवः उच्यते।
"रसोऽप्यस्य परं दृष्ट्वा"
इत्युक्तत्वात्।
"अविज्ञाय परं मत्तो जयः कामस्य वै कुतः"
इति च।
अतः परमात्मज्ञानमेवात्र विवक्षितम्। आत्मानं मनः। आत्मना बुद्ध्या ॥४२, ४३॥
॥इति श्रीमद्भगवद्गीताभाष्ये तृतीयोऽध्यायः॥
Thus ends the Bhagavad Gīta Bhashya, third chapter.
Gīta Tātparya 3.42 and 43
"सर्वेभ्यः प्रवरा देवाः इन्द्राद्या इंद्रियात्मकाः। तेभ्यो मनोऽभिमानी तु रुद्रः तस्मात् सरस्वती॥ बुध्द्यात्मिका ततो ब्रह्मा महानात्मा परः स्मृतः। अव्यक्तरूपा लक्ष्मीश्च वराऽतोऽतो हरिः स्वयम्। न तत्समोऽधिको वेति हि आनुपूर्वी प्रकीर्तिता॥ यथाक्रमप्रबोधेन नाश्याः कामादिशत्रवः। प्राप्यते च परं स्थानं विष्णोरतुलमञ्जसा॥"
इति च।
न च "इन्द्रियेभ्यः परा हि अर्थाः", "रुद्रोऽहङ्कृतिरूपकः", इत्यादिविरोधः॥
"सर्वाभिमानिनो देवाः सर्वेऽपि हि उत्तरोत्तरम्। आधिक्यं वक्तुमेवैषां पृथक् स्थानमुदीर्यते॥ आधिक्यक्रम एवात्र शास्त्रतात्पर्यमिष्यते। स्थानेषु तु अवरेषां च परे सन्ति न चेतरे॥ तथापि पितुरर्थो यः पुत्रस्याप्युपचर्यते। अव्यक्तादिपदार्थानां सर्वे तदभिमानिनः॥"
इति च।
"यत्र ह क्व च पुत्रस्य तत्पितुः। यत्र वा पितुः तद्वा पुत्रस्य एत्येतदुक्तं भवति।"
इत्यादिश्रुतेश्च।
"बहुवाचिनां तु शब्दानां लिङ्गप्रकरणादिभिः। प्रवृत्तिहेतोश्चाधिक्यात् न्निर्णयोऽर्थेषु गम्यते॥"
इति शब्दनिर्णये।
"लिङ्गादिसाम्यं यत्र स्यात्प्रयोगाधिक्यमेव तु। निर्णायकं भवेत्तत्र तेन स्यात् सुबहुश्रुतः॥"
इति ब्रह्मतर्के ॥४२॥
॥इति श्रीमद्भगवद्गीतातात्पर्यनिर्णये तृतीयोध्यायः॥
Thus ends the Bhagavad Gita Tatparya of 3rd chapter.
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोध्यायः ॥