Bhagavad Gīta Bhāshya and Tātparya
B.G 3.38, 39, and 40
धूमेनाव्रियते वह्निर्यथाऽदर्शो मलेन च। यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥३८॥
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा। कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥३९॥
इंद्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते। एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥४०॥
Gīta Bhāshya 3.38, 39 and 40
कथं विरोधी सः। इदम् अनेनावृतम्। यथा धूमेन अग्निः आवृतः, प्रकाशरूपोऽपि अन्येषां न सम्यग्दर्शनाय तथा परमात्मा। यथा आदर्शः मलेनावृतः अन्यस्य अभिव्यक्तिहेतुः न भवति तथा अन्तःकरणं परमात्मादेः व्यक्तिहेतुः न भवति कामेन आवृतम्। यथा उल्बेन आवृत्य बद्धो भवति गर्भः तथा कामेन जीवः ॥३८॥
शास्त्रतो जातमपि ज्ञानं परमात्मापरोक्ष्याय न प्रकाशते कामेन आवृतं ज्ञानिनोऽपि, किमु अल्पज्ञानिनः। कामरूपेण कामाख्येन नित्यवैरिणा। दुष्पूरेण दुःखेन हि कामः पूर्यते। न हि इन्द्रादिपदं सुखेन लभ्यते। यद्यपि इन्द्रादिपदं प्राप्तं पुनः ब्रह्मादिपदम् इच्छतीति लम्बुद्धिः न अस्तीति अनलः। उक्तं च-
"ज्ञानस्य ब्रह्मणश्चाग्नेः धूमो बुद्धेर्मलं तथा। आदर्शस्याथ जीवस्य गर्भस्योल्बो हि कामकः॥"
इति ॥३९॥
वधार्थं शत्रोः अधिष्ठानमाह - इंद्रियाणीति। एतैः ज्ञानम् आवृत्य। बुद्ध्यादिभिर्हि विषयगैः ज्ञानम् आवृतं भवति ॥४०॥
Gīta Tātparya 3.38, 39 and 40
"अखिलप्रेरको विष्णुः ब्रह्माध्याः तदवान्तराः। असुरा अशुभेष्वेव कामादेरभिमानिनः॥ तत्र कामः कालनेमिः सर्वं धूममलोल्बवत्। शुभमध्याधमजनं क्रमादावृत्य तिष्ठति॥ महाशनस्य तस्येदं नालं तेनानलोऽग्निवत्। भुञ्जान इंद्रियाविष्टो ज्ञानास्त्रेणैव दह्यते॥"
इति ब्रह्मतर्के।
ज्ञानावरणरूपेण इदमावृणोतीति आवृतं ज्ञानमिति पुनराह। न केवलं दुष्पूरो नालमिति मन्यते चेत्यनलः।
'अग्नेरप्यनलः कामो यन्नालमिति मन्यते'
इति च ॥३७-४०॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.