Bhagavad Gīta Bhāshya and Tātparya
B.G 2.69
या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥६९॥
Gīta Bhāshya 2.69
उक्तम् लक्षणं पिण्डीकृत्याह - या निशेति।
या सर्वभूतानां निशा परमेश्वरस्य रूपलक्षणा यस्यां सुप्तानीव न किञ्चित् जानन्ति तस्याम् इन्द्रिय संयमयुक्तः ज्ञानी जागर्ति सम्यगापरोक्ष्येण पश्यति परमात्मानम् इत्यर्थः। यस्यां विषयलक्षणायां भूतानि जाग्रति तस्यां निशायामिव सुप्तः प्रायः न जानाति।
मत्तादिवद् गमनादिप्रवृत्तिः। तदुक्तम् -
"देहं तु तं न चरमम्", "देहोपि दैववशगः"
इति श्लोकाभ्याम्।
मननयुक्तो मुनिः। 'पश्यतः' इत्यस्य साधनमाह ॥६९॥
Gīta Tātparya 2.69
"देवेभ्योSन्ये यदा ब्रह्म पश्यन्त्यन्यन्न दृश्यते। निशायामिव सुव्यक्तं यथाSन्यैर्ब्रह्म नेयते॥ आश्चर्यवस्तुदृग्यद्वत् व्यक्तमन्यन्न पश्यति। ऐकाग्र्याद्वा सुखोद्रेकात् देवाः सूर्यवदेव च। प्रायशः सर्ववेत्तारः तत्रापि ह्युत्तरोत्तरम्॥"
इति ब्रह्मतर्के ॥६९॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.