Bhagavad Gīta Bhāshya and Tātparya
B.G 2.66 and 67
नास्ति बुदि्धरयुक्तस्य न चायुक्तस्य भावना। न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्॥६६॥
इंद्रियाणां हि चरतां यन्मनोनुविधीयते। तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥६७॥
Gīta Bhāshya 2.66 and 67
प्रसादाभावे दोषमाह उत्तराभ्यां श्लोकाभ्याम्। न हि प्रसादाभावे युक्तिः चित्तनिरोधः। अयुक्तस्य च बुद्धिः सम्यग्ज्ञानं नास्ति। तदेव उपपादयति न चायुक्तस्येति। शान्तिः मुक्तिः।
"शान्तिर्मोक्षोथ निर्वाणम्।"
इत्यभिधानात् ॥६६॥
कथं अयुक्तस्य भावना न भवति। आह - इंद्रियाणामिति। अनु विधीयते क्रियते ननु ईश्वरेण इद्रियाणाम् अनु। "बुदि्धर्ज्ञानम्'' इति वक्ष्यमाणत्वात् । प्रज्ञां ज्ञानम् उत्पत्स्यदपि निवारयतीत्यर्थः। उत्पन्नस्यापि अभिभवो भवति ॥६७॥
Gīta Tātparya 2.66 and 67
शान्तिः भगवन्निष्ठा।
"शमो मन्निष्ठता।"
इति हि भागवते ॥६४-६६॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.