Bhagavad Gīta Bhāshya and Tātparya
B.G 2.55
श्रीभगवानुवाच। प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्। आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥२-५५॥
Gīta Bhāshya 2.55
गमनादिप्रवृत्तिः नात्यभिसन्धिपूर्विका मत्तादिप्रवृत्तिवत् इति 'या निशा' इत्यादिना दर्शयिष्यन् लक्षणं प्रथमत आह - प्रजहातीति।
एवं परमानन्दतृप्तः किमर्थं प्रवृत्तिं करोति इति प्रश्नाभिप्रायः। प्रारब्धकर्मणा ईषत् तिरोहितब्रह्मणः वासनया प्रायः अल्पाभिसन्धिपूर्विका प्रवृत्तिः सम्भवति इत्याशयवान् परिहरति।
प्रायः सर्वान् कामान् प्रजहाति। शुकादीनामपि ईषद्दर्शनात्।
"त्वत्पादभक्तिमिच्छन्ति ज्ञानिनस्तत्त्वदर्शिनः"
इत्युक्थेः तामिच्छन्ति। यदा तु इन्द्रादीनाम् आग्रहो दृश्यते तदा अभिभूतं तेषां ज्ञानम्। तच्चोक्तम्-
"आधिकारिकपुंसां तु बृहत्कर्मत्वकारणात्। उद्भवाभिभवौ ज्ञाने ततोन्येभ्यो विलक्षणाः॥"
इति। अत एव वैलक्षण्यात् अनधिकारिणां आग्रहादि चेदस्ति न ते ज्ञानिनः इत्यवगन्तव्यम्।
न चात्र समाधिं कुर्वतो लक्षणमुच्यते।
"यः सर्वत्रानभिस्नेहः"
इति स्नेहनिषेधात्। न हि समाधिं कुर्वतः तस्त शुभाशुभप्राप्तिरस्ति। असम्प्रज्ञातसमाधेः। सम्प्रज्ञाते तु अविरोधः। तथापि न तत्रैव इति नियमः।
"कामादयो न जायन्तेह्यपि विक्षिप्तचेतसाम्। ज्ञानिनां ज्ञाननिर्धूतमलानां देवसंश्रयात्॥"
इति स्मृतेः।
मनोगता हि कामाः। अतः तत्रैव तद्विरुद्धज्ञानोत्पत्तौ युक्तं हानं तेषाम् इति दर्शयति - मनोगतान् इति। विरोधश्च उच्यते-
"रसोSप्यस्य परं दृष्ट्वा निवर्तते"
इति। न च एतत् अदृष्ट्या अपलपनीयम्। पुरुषवैशेष्यात्। आत्मना परमात्मना। परमात्मन्येव स्थितः सन्। आत्माख्ये तस्मिन् स्थितस्य तत्प्रसादादेव तुष्टिः भवति।
"विषयांस्तु परित्यज्य रामे स्थितिमतिस्ततः। देवाद् भवति वै तुष्टिः नान्यथा तु कदाचन॥"
इत्युक्तं हि नारायणाष्टाक्षरकल्पे।
अतो नात्मा जीवः ॥५५॥
Gīta Tātparya 2.52
"सर्वकामनिवृत्तिस्तु जानतो न कथञ्चन। अनिषिद्धकामितैवातो ह्यकामित्वमितीर्यते॥ अपरोक्षदृशोपि स्यात् यदा नास्त्यपरोक्षदृक्। क्वचिद्विरुद्धकामोपि यथायुद्ध्यद्धरो हरिम्। अतोनभिभवो यावद्दृशस्तावन्निगद्यते। स्थितप्रज्ञस्तथाप्यस्य कदाचित्क्यपि या दृशिः॥ नियमेनैव मोक्षाय भवेद् योग्या भवेद्यदि। अयोग्या भक्तिजाता चेत् क्रमात् मुक्त्यै भवेत्तथा॥"
इति च।
आत्मनि विष्णौ, आत्मना विष्णुना। तत्प्रसादादेव तुष्टः ॥५५ ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.