B.G 2.39
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु। बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥२-३९॥
Gīta Bhāshya 2.39
साङ्ख्यं ज्ञानम्।
"शुद्धात्मतत्त्वविज्ञानं साङ्ख्यमित्यभिधीयते॥"
इति भगवद्वचनाद् व्यासस्मृऽतौ।
योगः उपायः।
"दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये।"
इति प्रयोगाद् भागवते।
नेतरौ साङ्ख्ययोगौ उपादेयत्वेन विवक्षितौ कुत्रचित् सामस्त्येन। 'कर्मयोगः ' इत्यादि प्रयोगाच्च। निन्दितत्वाच्च इतरयोः मोक्षधर्मेषु भिन्नमतत्वमुक्त्वा पञ्चरात्रस्तुत्या। वेदानां तु एकार्थत्वात् न विरोधः। पार्थक्यं तु साङ्ख्याद्यपेक्षया युक्तम्। तत्रैव चित्रशिखण्डिशास्त्रे पञ्चरात्रमूले वेदैक्योक्तेश्च। एवमेव सर्वत्र साङ्ख्ययोगशब्दार्थ उपादेयः वर्णनीयः।युक्तेश्च। ज्ञानं हि जैवमुक्तम्। उपायश्च वक्ष्यते।
बुद्ध्यते अनया इति बुदि्धः। साङ्ख्यविषयो यया वाचा बुद्ध्यते सा वागभिहिता इत्यर्थः ॥ ३९-४० ॥
Gīta Tātparya 2.39
सम्यक् ख्यातिः ज्ञानं साङ्ख्यम्। युज्यते अनेनेति योगः तदुपायः।
"सम्यक् तत्वदृशिः साङ्ख्यं योगः तत्साधनं स्मृऽतम्"
-इति शब्दनिर्णये।
"ब्रह्मतर्कः तर्कशास्त्रं विष्णुना यत्समीरितम्। अक्षपादकणादौ च साङ्ख्ययोगौ च हैतुकाः। बौद्धपाशुपताद्यास्तु पाषण्डा इति कीर्तिताः। मीमांसा त्रिविधा प्रोक्ता ब्राह्मी दैवी च कार्मिकी। ब्रह्मतर्कं च मीमांसां सेवेत ज्ञानसिद्धये। वैदिकज्ञानवैरूप्यात् नान्यत् सेवेत पण्डितः॥"
इत्यन्यसाङ्ख्ययोगयोः निषिद्धत्वात् नारदीये।साङ्ख्यस्य निरीश्वरत्वात् उक्तत्वाच्च इश्वरस्य। साङख्यैः योगैश्च विहितहिंसाया अपि अनर्थहेतुत्वाङ्गीकारात्। अत्र तु युद्धविधानाच्च मोक्षार्थत्वेनैव कर्मबन्धं प्रहास्यसीति।
परमसाङ्ख्ययोगयोश्च उक्तार्थत्वेनैव न विरोधः ॥३९॥