Bhagavad Gīta Bhāshya and Tātparya
B.G 2.13
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा। तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ २-१३॥
Gīta Bhāshya 2.13
देहिनो भावे एतद्भवति। तदेवासिद्धम् इति चेन्न देहिनोऽस्मिन्। यथा कौमारादिशरीरभेदेपि देही तदीक्षिता सिद्धः एवं देहान्तरप्राप्तावपि। ईक्षितृत्वात्।
न हि जडस्य शरीरस्य कौमाराद्यनुभवः सम्भवति। मृतस्यादर्शनात्। मृतस्य वाय्वाद्यपगमादनुभवाभावः। अहं मनुष्य इत्याद्यनुभवाच्चैतत् सिद्धमिति चेत् न। सत्येवाविशेषे देहे सुप्त्यादौ ज्ञानादिविशेषादर्शनात्। समश्चाभिमानो मनसि। काष्ठादिवच्च।
श्रुतेश्च। प्रामाण्यं च प्रत्यक्षादिवत्। न च बौद्धादिवत्। अपौरुषेयत्वात्। न ह्यपौरुषेये पौरुषेयाज्ञानादयः कल्पयितुं शक्याः।
विना च कस्यचिद् वाक्यस्यापौरुषेयत्वं सर्वसमयाभिमतधर्माद्यसिदि्धः।
यश्च तौ नाङ्गीकुरुते नासौ समयी। अप्रयोजकत्वात्। मास्तु धर्मोनिरूप्यत्वादिति चेत् न। सर्वाभिमतस्य प्रमाणं विना निषेद्धुमशक्यत्वात्। नच सिद्धिरप्रामाणिकस्येति चेत् - न। सर्वाभिमतेरेव प्रमाणत्वात्।
अन्यथा सर्ववाचिकव्यवहारासिद्धेश्च। न च मया श्रुतमिति तव ज्ञातुं शक्यम्। अन्यथा वा प्रत्युत्तरं स्यात्। भ्रान्तिर्वा तव स्यात्।
सर्वदुःखकारणत्वं वा स्यात्। एको वान्यथा स्यात्।
रचितत्वे च धर्मप्रमाणस्य कर्तुरज्ञानादिदोषशङ्का स्यात्। न चादोषत्वं स्ववाक्येन एव सिद्ध्यति। न च येन केनचिदपौरुषेयमित्युक्तमुक्तवाक्यसमम्। आनादिकालपरिग्रहसिद्धत्वात्। अतः प्रामाण्यं श्रुतेः। अतः कुतर्कैः धीरस्तत्र न मुह्यति॥
अथवा, जीवनाशं देहनाशं वापेक्ष्य शोकः? न तावत् जीवनाशम्। नित्यत्वादित्याह– न त्वेवेति। नापि देहनाशमित्याह– देहिन इति। यथा कौमारादिदेहहानेन जरादिप्राप्तावशोकः एवं जीर्णादिदेहहानेन देहान्तरप्राप्तावपि ॥ १३ ॥
Gīta Tātparya 2.13
मम स्वकीयदेहान्तरप्राप्तिरपि नास्तीति दर्शयितुं देहिन इति विशेषणम्। भवदादीनां सा भविष्यतीत्यपि शोको न कर्तव्यः। देहस्येदानी- मप्यन्यथात्वदर्शनात् ॥ १३ ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.