B.G 18.18
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना। करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥१८॥
Gīta Bhāshya 18.18
एवं तर्हि न पुरुषं अपेक्ष्य विधिः। अकर्तृत्वात् इत्यत आह - ज्ञानं इति॥
त्रिविधा कर्मचोदना। एतत् त्रिविध मपेक्ष्य कर्मविधिः इति त्रिविधा उच्यते। कारणानि सङ्क्षिप्याह - करणं इति॥
कर्म सङ्ग्रहः कर्मकारणसङ्ग्रहः। अधिष्ठानादि करणे एव अन्तर्भूतः। तथाहि ऋग्वेदखिलेषु -
"ज्ञानं ज्ञेयं ज्ञानिनं चाप्यपेक्ष्य विधिरुत्थितः। करणं चैव कर्ता च कर्मकारणसङ्ग्रहः॥"
इति।
अकर्तृत्वेपि विधिद्वार ईश्वरप्रसादात् इच्छोत्पत्त्या उक्त कारणैः कर्मद्वारा पुरुषार्थो भवतीति। ईश्वराधीनत्वेपि विधिद्वारा नियतः तेनैव। यदि च इच्छादिः जायते तर्हि कारितमेव ईश्वरेण। फलं च नियतम्। वस्तुतो अकर्तृत्वेपि अभिमानिकं कर्तृत्वं तस्यैव। स्वातन्त्र्यं च जडमपेक्ष्येव इति न प्रवृत्तिविधि वैयर्थ्यम्। सर्वं चैतत् अनुभवोक्तप्रमाणसिद्धं इति न पृथक् प्रमाणमुच्यते ॥१८॥