Bhagavad Gīta Bhāshya and Tātparya
B.G 18.05
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्। यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥५॥
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च। कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥६॥
Gīta Bhāshya 18.06
यज्ञभेदः उक्तः 'द्रव्ययज्ञाः' इत्यादिना। दाने त्वभयदानं अन्तर्भवति। एतेषां मध्ये यत्किञ्चित् यज्ञादिकं कर्तव्यमेव इत्यर्थः। अन्यथा -
"ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा। यदीच्छेन्मोक्षमास्थातुं उत्तमाश्रममाश्रयेत्॥"
इत्यादि व्यासस्मृतिविरोधः।
ज्ञानयज्ञविद्याऽभयदानब्रह्मचर्यादितपसो हि ते। अतो यद्वच्चः अन्यथा प्रतीयते, अधिकारभेदेन तद्योज्यम्। अन्यथा इतरेषां गत्यभावात् ॥५, ६॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.