B.G 13.24
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह। सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥२४॥
Gīta Bhāshya 13.24
"पुरुषः सुखदुःखानाम्" इति जीव उक्तः। "पुरुषं प्रकृतिम्" इति जीवेश्वरौ सहैव उच्येते। अन्यत्र महातात्पर्यविरोधः। उत्कर्षे हि महातात्पर्यम्। तथाहि सौकरायणश्रुतिः -
"अवाच्योत्कर्षे महत्त्वात् सर्ववाचां सर्वन्यायानां च महत्तत्परत्वम्। विष्णोरनन्तस्य परात्परस्य तच्चापि ह्यस्त्येव न चात्र शङ्का॥
अतो विरुद्धं तु यदत्र मानं तदक्षजादावथवापि युक्तिः। न तत् प्रमाणं कवयो वदन्ति न चापि युक्तिर्ह्यूनमतिर्हि दृष्टेः॥"
इति।
अतो युक्तिभिरपि एतदपलापो न युक्तः। अतो यया युक्त्या अविद्यमानत्वादि कल्पयति सापि आभासरूपेति सदेव माहात्म्यं वेदैरुच्यते इति सिद्ध्यति।
अवान्तरं च तात्पर्यं तत्रास्ति। उक्तं च तत्रैव-
"अवान्तरं तत्परत्वं च सत्त्वे महद्वाप्येकत्वात्तयोरनन्ते।"
इति।
श्यामत्वाद्यभिधानाच्च। युक्तं च पुरुषमतिकल्पितयुक्त्यादेः आभासत्वम्। अज्ञानसम्भवात्। न तु स्वतः प्रमाणस्य वेदस्य आभासत्वम्। अदर्शनं च सम्भवत्येव। पुंसां बहूनामपि अज्ञानात्। तर्ह्यस्मदनधीतश्रुत्यादौ विपर्ययोपि स्यादिति न वाच्यम्। यतः तत्रैवाह -
"नैतद्विरुद्धा वाचो नैतद्विरुद्धा युक्तयः इति ह प्रजापतिरुवाच।"
इति।
तद्विरुद्धं च जीवसाम्यम्।
"आभास एव च" - इति चोक्तम्।
"जनमेजय उवाच -
बहवः पुरुषा ब्रह्मन् उताहो एक एव तु। को ह्यत्र पुरुषश्रेष्ठः तम् भवान् वक्तुमर्हति।
श्रि वैशंपायन उवाच -
नैतदिच्छन्ति पुरुषं एकं कुरुकुलोद्भव। बहूनां पुरुषाणां हि यथैका योनिरुच्यते। तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्॥
इति मोक्षधर्मे।
न च तत्सर्वं स्वप्नेन्द्रजालवत्।
"वैधर्म्याच्च न स्वप्नादिवत्"
इति हि भगवद्वचनम्।
न च स्वप्नवत् एकजीवकल्पितत्वे मानं पश्यामः। विपर्यये माश्चोक्ता द्वितीये। उक्तं च आयास्यशाखायाम् -
"स्वप्नो ह वा अयं चञ्चलत्वान्न च स्वप्नो न हि विच्छेदो एतदिति॥"
इति।
नायं दोषः। न हि ईश्वरस्य जीवैक्यम् उच्यते। जीवस्य हि ईश्वरैक्यं ध्येयम्। तदपि न निरुपाधिकम्। अतो न प्रतिबिम्बत्वस्य विरोधि ऐक्यम्। तथा हि माधुच्छन्दसश्रुतिः -
"ऐक्यं चापि प्रातिबिम्ब्येन विष्णोः र्जीवस्यैतद्रुषयो वदन्ति।"
इति।
अहङ्ग्रहोपासने च फलाधिक्यं अग्निवेश्यश्रुतिसिद्धम् -
"अहङ्ग्रहोपासकस्तस्य साम्यं अभ्याशो ह वा अश्नुते नात्र शङ्का।"
इति।
"तदीयोऽहमिति ज्ञानमहङ्ग्रह इतीरितः।"
इति वामने।
"तद्वशत्वात् तु सोऽस्मीति भृत्यैरेव न तु स्वतः॥"
इति च।
प्रातिबिम्ब्येन सोऽस्मि भृत्यश्च इति भावना। तथा हि अयास्य शाखायाम् -
"भृत्यश्चाहं प्रातिबिम्ब्येन सोस्मीत्येवं ह्युपास्यः परमः पुमान् सः॥"
इति।
प्रातिबिम्ब्यं च तत्साम्यमेव ॥२४॥