B.G 12.12
श्रेयो हि ज्ञानमभ्यासात् ज्ञानाद्ध्यानं विशिष्यते। ध्यानात् कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥१२॥
Gīta Bhāshya 12.12
अज्ञानपूर्वात् अभ्यासात् ध्यानमेव विशिष्यते। ज्ञानमात्रात् सज्ञानं ध्यानम्। तथा च सामवेदे आनभिम्लानशाखायाम्-
"अधिकं केवलाभ्यासाद् ज्ञानं तत्सहितं ततः। ध्यानं ततश्चापरोक्षं ततः शान्तिर्भविष्यति॥"
इति।
"ध्यानात् कर्मफलत्यागः" इति तु स्तुतिः। अन्यथा कथम् असमर्थोऽसि इत्युच्यते। तयोस्तु कर्मसन्नयासात् कर्मयोगो विशिष्यते। इति चोक्तम्।
"सर्वाधिकं ज्ञानमुदाहरन्ति ध्यानाधिके ज्ञानभक्ती परात्मन्। कर्माफलाकाङ्क्षमथो विरागः त्यागश्च न ध्यानकलाफलार्हः॥"
इति च काषायणशाखायाम्।
वाक्यसाम्येऽपि असमर्थविषयत्वोक्तेः तात्पर्याभावः इतरत्र प्रतीयते। ध्यानादिप्राप्तिकारणत्वाच्च त्यागस्तुतिर्युक्ता। केवलध्यानात् फलत्यागयुक्तं ध्यानं अधिकम्। ध्यानयुक्त त्याग एव चात्रोक्तः। अन्यथा कथम्- "त्यागात् शान्तिररनन्तरम्" इत्युच्यते। कथं च ध्यानादाधिक्यम्। तथा च गौपवनशाखायाम्-
"ध्यानात्तु केवलात् त्यागयुक्तं तदधिकं भवेत्॥"
इति।
न हि त्यागमात्रानन्तरमेव मुक्तिर्भवति। भवति च ध्यानयुक्तात्। केवलत्यागस्तुतिरेवमपि भवति। यथा "अनेन युक्तो जेता, नान्यथा" इत्युक्ते ॥१२॥