Bhagavad Gīta Bhāshya and Tātparya
B.G 11.16
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम्। नान्तं न मध्यं न पुनस्तवाऽदिं पश्यामि विश्वेश्वर विश्वरूप ॥१६॥
Gīta Bhāshya 11.16
अनेकशब्दोऽनन्तवाची। "अनन्तबाहुम्" इति वक्ष्यति। "सर्वतः पाणिपादं तत्" इत्यादि च।
"विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात्। सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन् देव एकः॥"
इति च ऋग्वेदखिलेषु।
"विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात्। सं बाहुभ्यां नमति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः॥"
इति यजुर्वेदे च।
विश्वशब्दश्चअनन्तवाची -
"सर्वं समस्तं विश्वं मनन्तं पूर्णमेव च।"
इत्यभिधानात्।
"अनन्तबाहुमनन्तपादमनन्तरूपं पुरुवक्त्रमेकम्॥"
इति च बाभ्रव्यशाखायाम्।
महत्त्वाद्युक्तिस्तु तदात्मकत्वेनापि भवति। अन्यथा "अनादि मत्परं ब्रह्म" इत्यादि अयुक्तं स्यात्।
एकत्र तु अनन्तानि अस्य रूपाणि इति अनन्तरूपः। अन्यत्र तु अपरिमाणः इति। उक्तं हि उभयमपि -
"परात्परं यन्महतो महान्तम् यदेकमव्यक्तमनन्तरूपम्।"
इति यजुर्वेदे।
अव्यक्तस्य अनन्तत्वादेव महत्वे अपरिमितत्वं सिद्ध्यति।
"महान्तं च समावृत्य प्रधानं समवस्थितम्। अनन्तस्य न तस्यान्तः सङ्ख्यानं चापि विद्यते॥"
इत्यादित्यपुराणे।
तानि च एकैकानि रूपाणि अनन्तानि इति चैकत्र भवति।
"असङ्ख्याता ज्ञानकाः तस्य देहाः सर्वेऽपरीमाणविवर्जिताश्च॥"
इति ऋग्वेदखिलेषु।
"यावान् वा अयमाकाशः तावानेषोऽन्तर्हृदय आकाशः। उभेस्मिन् द्यावापृथिवी अन्तरेव समाहिते। उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ॥"
इति च।
"कृष्णस्य गर्भजगतोऽतिभरावसन्नपार्ष्णिप्रहारपरिरुग्णफणातपत्रम्।"
इति च भागवते।
न चैतदयुक्तम्। अचिन्त्यशक्तित्वात् ईश्वरस्य।
"अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्।"
इति श्रीविष्णुपुराणे।
"नैषा तर्केण मतिरापनेया"
इति च श्रुतिः।
अतिप्रसङ्गस्तु महातात्पर्यवशात् वाक्यबलाच्च अपनेयः। न हि घटवत् कश्चिदपि पदार्थः न दृष्टः इत्येतावता प्रमाणदृष्टः सन् निराक्रियते। केषुचित् पदार्थेषु वाक्यव्यवस्था अचिन्त्यशक्तित्वाभावात् अङ्गीक्रियते।
"गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का। चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः॥ एवं परेऽन्यत्र श्रुताश्रुतानां गुणागुणानां च क्रमाद् व्यवस्था॥"
इति जाबालश्रुतेश्च।
उपचारत्वपरिहाराय "न मध्यम्" इति। अन्यथा आद्यन्ता भावेनैव तत्सिद्धेः। विश्वरूपः पूर्णरूपः।
"स विश्वरूपोऽनूनरूपोऽतोऽयं सोऽनन्तरूपो न हि नाशोऽस्ति तस्य।"
इति शाण्डिल्यशाखायाम् ॥१६॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.