B.G 10.06
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा। मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥६॥
Gīta Bhāshya 10.06
पूर्वे सप्तर्षयः -
"मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः। वसिष्ठश्च महातेजाः"
इति मोक्षधर्मोक्ताः।
ते हि सर्वपुराणेषु उच्यन्ते। चत्वारः प्रथमाः स्वायम्भुवाद्याः। तेषां हि इमाः प्रजाः। न हि भविष्यतां "इमाः प्रजाः" इति युक्तम्। विभागः प्राधान्यं च प्राथमिकत्वादेव भवति। गौतमखिलेषु च्चोक्तं -
"स्वायम्भुवं स्वारोचिषं रैवतं च तथोत्तमम्। वेद यः स प्रजावान्...॥"
इति।
पूर्वेभ्यो ह्युत्तरा जायन्ते इत्येषां प्राधान्यम्। अजातेषु ज्यैष्ठ्यम्। तापसस्य भगवदवतारत्वात् अनुक्तिः। तच्च भागवते प्रसिद्धम्। मानसत्वं च सर्वेषां मनूनां उक्तं भागवते -
"ततो मनून् ससर्जान्ते मनसा लोकभावनान्।"
इति।
अन्यपुत्रत्वं त्वपरित्यज्यापि शरीरं तद् भवति। प्रमाणं च उभयविध - वाक्यान्यथानुपपत्तिरेव। पूर्वे इति विशेणाच्च एतत्सिदि्धः।
मत्तो भावो येषां ते मद्भावाः। ये ते ब्रह्मणो मनसा जाताः मत्त एव जाताः इति भावः ॥६॥