Bhagavad Gīta Bhāshya and Tātparya
B.G 9.01 and 02
श्रीभगवानुवाच -
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे। ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१॥
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्। प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥२॥
Gīta Bhāshya 9.01 and 02
सप्तमाध्यायोक्तं स्पष्टयत्यस्मिन्नध्याये-
राजविद्या प्रधानविद्या। प्रत्यक्षं ब्रह्म अवगम्यते येन तत् प्रत्यक्षावगमम्। अक्षेषु इंद्रियेषु प्रति प्रति स्थितः इति प्रत्यक्षः। तथा च श्रुतिः-
"यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं। यः प्राणमन्तरो यमयत्येष त आत्माऽतर्याम्यमृतः॥", "यो वाचि तिष्ठन्", "यः चक्षुषि तिष्ठन्"
इत्यादेः।
"य एषोऽन्तरक्षिणि पुरुषो दृश्यते"
इति च।
"अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः"
इति च।
"त्वं मनस्त्वं चन्द्रमास्त्वं चक्षुरादित्यः"
इत्यादेश्च मोक्षधर्मे।
"सः प्रत्यक्षः प्रति प्रति हि सोऽक्षेष्वक्षवान् भवति य एवं विद्वान् प्रत्यक्षं वेद।"
इति सामवेदे बाभ्रव्यशाखायाम्।
धर्मः भगवान्। तद्विषयं धर्म्यम्। सर्वं जगद् धत्ते इति धर्मः।
'पृथिवीधर्ममूर्धनि'
इति च प्रयोगात् मोक्षधर्मे।
"भारभृत् कथितो योगी"
इति च।
"भर्तासन् भ्रियमाणो बिभर्ति"
इति च श्रुतिः।
"धर्मो वा इदमग्र आसीन्न पृथिवी न वायुर्नाऽकाशो न ब्रह्मा न रुद्रो न देवा न ऋषयः सोऽध्यायत्।"
इति च सामवेदशाखायाम्॥
प्रत्य्क्षावगमशभ्देन अपरोक्ष ज्ञान साधनत्वं उक्तं ॥२॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.