B.G 7.29, 30
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये। ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥२९॥
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः। प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥३०॥
Gīta Bhāshya 7.29, 30
'जरामरणमोक्षाय' इति अन्यकामनिवृत्त्यर्थम्। मोक्षे सक्तिस्तुत्यर्थं वा। न विधिः।
"मुमुक्षोरमुमुक्षुस्तु वरो ह्येकान्तभक्तिभाक्॥"
इति इतरस्तुतेः नारदीये।
'नात्यन्तिकम्'
इति च।
"देवानां गुणलिङ्गानामानुश्राविककर्मणाम्। सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या॥ अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी। जरयत्याशु या कोशं निगीर्णमनलो यथा॥"
इति लक्षणाच्च भागवते।
आह च -
"सर्वे वेदास्तु देवार्थाः देवा नारायणार्थकाः। नारायणस्तु मोक्षार्थो मोक्षो नान्यार्थ इष्यते॥ एवं मध्यमभक्तानाम् एकान्तानां न कस्यचित्। अर्थे नारायणो देवः सर्वमन्यस्तदर्थकम्॥"
इति गीताकल्पे।
ते एव च विदुः।
"यमेवैष वृणुते"
इति श्रुतेः ॥२९, ३०॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये सप्तमोध्यायः ॥
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोध्यायः ॥