Bhagavad Gīta Bhāshya
B.G 6.45
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः। अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥४५॥
Gīta Bhāshya 6.45
नैकजन्मनि इत्याह - प्रयत्नादिति।
जिज्ञासुः ज्ञात्वा प्रयत्नं करोति। एवम् अनेकजन्मभिः संसिद्धः अपरोक्षज्ञानी भूत्वा परां गतिं याति। आह च -
"अतीव श्रद्धया युक्तो जिज्ञासुर्विष्णुतत्परः। ज्ञात्वा ध्यात्वा तथा दृष्ट्वा जन्मभिर्बहुभिः पुमान्। विशेन्नारायणं देवं नान्यथा तु कथञ्चन॥"
इति नारदीये ॥४५॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.