Bhagavad Gīta Bhāshya
B.G 5.01
अर्जुन उवाच
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि। यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥१॥
Gīta Bhāshya 5.01
तृतीयाध्यायोक्तमेव कर्मयोगं प्रपञ्चयति अनेन अध्यायेन। 'यदृच्छालाभ सन्तुष्टः' इत्यादि सन्न्यासम्। 'कुरु कर्म' इत्यादि कर्मयोगं च।
नियमनादिना सकललोककर्षणात् कृष्णः। त्च्चोक्तं-
"यतः कर्षसि देवेश नियम्य सकलं जगत्। अतो वदन्ति मुनयः कृष्णं त्वां ब्रह्मवादिनः॥"
इति महाकौर्मे।
संन्यासशब्दार्थं भगवानेव वक्ष्यति। अयं प्रश्नाशयः- 'यदि संन्यासः श्रेयोऽधिकः स्यात् तर्हि संन्यासस्य ईषद्विरोधि युद्धम्' इति ॥१॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.