Bhagavad Gīta Bhāshya and Tātparya
B.G 4.07 and 08
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥७॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥८॥
Gīta Bhāshya 4.07 and 08
न जन्मनैव परित्राणादिकं कार्यम् इति नियमः। तथापि लीलया स्वभावेन च यथेष्टचारी। तथाहि उक्तम्–
"देवस्यैष स्वभावोऽयम्।"
"लोकवत्तु लीलाकैवल्यम्।"
"क्रीडतो बालकस्येव चेष्टां तस्य निशामय।"
"अरिभयादिव स्वयं पुराद्व्यवात्सीद्यदनन्तवीर्यः।"
"पूर्णोऽयमस्यात्र न किञ्चिदाप्यं तथापि सर्वाः कुरुते प्रवृत्तीः। अतो विरुद्धेषुमिमं वदन्ति परावरज्ञा मुनयः प्रशान्ताः॥"
इत्यादि रुग्वेदखिलेषु ॥८॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.