B.G 3.20
कर्मणैव हि संसिद्धिमास्थिता जनकादयः। लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि ॥२०॥
Gīta Bhāshya 3.20
आचारोपि अस्तीत्याह - कर्मणैवेति।
कर्मणा सह कर्म कुर्वन्तः एव इत्यर्थः। कर्म कृत्वैव ततो ज्ञानं प्राप्य वा। न तु ज्ञानं विना। प्रसिद्धं हि तेषां ज्ञानित्वं भारतादिषु। 'तमेवं विद्वान्' इत्यादि श्रुतिभ्यश्च। अत्रापि कर्मणां ज्ञानसाधनत्वोक्तेश्च 'बुदि्धयुक्तः' इति। गत्यन्तरं च 'नान्यः पन्थाः' इत्यस्य नास्ति। इतरेषां ज्ञानद्वारापि अविरोधः।
यत्र च तीर्थाद्येव मुक्तिसाधनमुच्यते-
"ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा। अथवा स्नानमात्रेण गोमत्यां कृष्णसन्निधौ॥"
इत्यादौ तत्र पापादिमुक्तिः। स्तुतिपरता च। तत्रापि हि कुत्रचित् ब्रह्मज्ञानसाधनत्वमेव उच्यते अन्यथा मुक्तिं निषिद्ध्य-
"ब्रह्मज्ञानं विना मुक्तिः न कथञ्चिदपीष्यते। प्रयागादेस्तु या मुक्तिर्ज्ञानोपायत्वमेव हि॥"
इत्यादौ। न च तीर्थस्तुतिवाक्यानि तत्प्रस्तावेप्युक्तम् ज्ञाननियमं घ्नन्ति। यथा कञ्चिद् दक्षं भृत्यं प्रत्युक्तानि -
"अयमेव हि राजा किं राज्ञा"
इत्यादीनि।
यथाह भगवान्-
"यानि तीर्थादिवाक्यानि कर्मादिविषयाणि च। स्तावकान्येव तानि स्युरज्ञानां मोहकानि वा। भवेन्मोक्षस्तु मद्दृष्टेः र्नान्यतस्तु कथञ्चन॥"
इति नारदीये।
अतः अपरोक्षज्ञानादेव मोक्षः। कर्म तु तत्साधनमेव ॥२०॥