Bhagavad Gīta Bhāshya
B.G 3.06 and 07
कर्मेंद्रियाणि संयम्य य आस्ते मनसा स्मरन्। इंद्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥६॥
यस्त्विंद्रियाणि मनसा नियम्यारभतेSर्जुन। कर्मेंद्रियैः कर्मयोगमसक्तः स विशिष्यते ॥७॥
Gīta Bhāshya 3.06 and 07
तथापि शक्तितः त्यागः कार्यः इत्यत आह - कर्मेंद्रियाणि इति। मन एव प्रयोजकम् इति दर्शयितुम् अन्वयव्यतिरेकौ आह, मनसा स्मरन् मनसा नियम्या इति। कर्मयोगं स्ववर्णाश्रमोचितम्। न तु गृहस्थकर्मैव इति नियमः। संन्यासादिविधानात्। सामान्यवचनाच्च ॥६,७॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.