B.G 3.04
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोश्नुते। न च संन्यसनादेव सिद्धिं समधिगच्छति ॥४॥
Gīta Bhāshya 3.04
इतश्च नियोक्ष्यामि इत्याह - न कर्मणाम् इति।
न कर्मणां युद्धादीनाम् अनारम्भेण नैष्कर्म्यं निष्कर्मतां काम्यकर्मपरित्यागेन प्राप्यते इति मोक्षं नाश्नुते। ज्ञानमेव तत्साधनं, न तु कर्माकरणमित्यर्थः। कुतः? पुरुषत्वात्। सर्वदा स्थूलेन सूक्ष्मेण वा पुरेण युक्तो ननु जीवः। यदि कर्माकरणेन मुक्तिः स्यात् स्थावराणां च।
न च अकरणे कर्माभावात् मुक्तिः भवति। प्रतिजन्मकृतानाम् अनन्तकर्मणां भावात्। न च सर्वाणि कर्माणि भुक्तानि। एकस्मिन् शरीरे बहूनि हि कर्माणि करोति। तानि च एकैकानि बहुजन्मफलानि कानिचित्। तत्र च एकैकानि कर्माणि भुञ्जन् प्राप्नोत्येव शेषेण मानुष्यम्। ततश्च बहुशरीरफलानि कर्माणि इति असमाप्तिः। तच्चोक्तम्-
"जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु। स्त्री वाप्यनूनदशकं देहं मानुषमार्जते॥ चतुर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः। अतोवित्त्वा परं देवं मोक्षाशा का महामुने॥"
इति ब्राह्मे।
यदि सादिः स्यात् संसारः पूर्वकर्माभावात् अतत्प्राप्तिः। अबन्धकत्वं तु अकामेनैव भवति। तच्च वक्ष्यते - 'अनिष्टमिष्टम्' इति।
ननु निष्कामकर्मणः फलभावात् मोक्षः स्मृतः-
"निष्कामं ज्ञानपूर्वं तु निवृत्तमिह चोच्यते। निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्॥"
इति मानवे।
अतः तत्साम्यात् अकरणेपि भवति इत्यत आह- न च इति। संन्यासः काम्यकर्मपरित्यागः। "काम्यानां कर्मणां" इति वक्ष्यमाणत्वात्। अकामकर्मणाम् अन्तःकरणशुद्ध्या ज्ञानात् मोक्षो भवति। तच्चोक्तम्-
"कर्मभिः शुद्धसत्त्वस्य वैराग्यं जायते हृदि॥"
इति भागवते।
विरक्तानामेव च ज्ञानमुक्तम्-
"न तस्य तत्त्वग्रहणाय साक्षाद् वरीयसीरपि वाचः समासन्। स्वप्ने निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात्॥"
इति । (भागवते ५.११.३)
न तु फलाभावात्। कर्माभावात्। अतो न कर्मत्याग एव मोक्षसाधनम्।
यत्याश्रमस्तु प्रायत्यार्थो भगवत्तोषणार्थश्च। अप्रयतत्वमेव हि प्रायो गृहस्थादीनाम्। इतरकर्मोद्योगात्। अप्रयतानां च न ज्ञानम्। तथाहि श्रुतिः "नाशान्तो नासमाहितः" इति। महांश्च यत्याश्रमे तोषो भगवतः। तथाह्याह-
"यत्याश्रमं तुरीयं तु दीक्षां मम सुतोषणीम्।"
इति नारायणाष्टाक्षरकल्पे।
आधिकारिकास्तु तत्स्था एव प्रायत्ये समर्थाः। स एव च महान् भगवतः तोषः। तच्चोक्तम्-
"देवादीनामादिराज्ञां महोद्योगेपि नो मनः। विष्णोश्चलति तद्भोगोप्यतीव हरितोषणम्॥"
इति पाद्मे ॥४॥