Bhagavad Gīta Bhāshya
B.G 2.59
विषया विनिवर्तन्ते निराहारस्य देहिनः। रसवर्जं रसोप्यस्य परं दृष्ट्वा निवर्तते ॥५९॥
Gīta Bhāshya 2.59
न च एतल्लक्षणं ज्ञानम् अयत्नतो अपि भवति इत्याह उत्तरैः श्लोकैः।
निराहारत्वेन विषयभोगसामर्थ्याभाव एव भवति। इतरविषयाकाङ्क्षाभावः वा। रसाकाङ्क्षादिः न निवर्तते। स तु अपरोक्षज्ञानादेव निवर्तते इत्याह - विषया इति।
"इंद्रियाणि जयन्त्याशु निराहारा मनीषिणः। वर्जयित्वा तु रसनाम् असौ रस्ये च वर्धते॥"
इति वचनात् भागवते।
रसशब्दस्य रागवाचकत्वाच्च ॥५९॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.