Bhagavad Gīta Bhāshya and Tātparya
B.G 2.47
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥२-४७॥
Gīta Bhāshya 2.47
कामात्मनां निन्दा कृता। कथम् एषाम् 'स्वर्गकामो यजेत' इत्यादौ कामस्यापि विहितत्वात् इत्यत आह- 'कर्मण्येवेति'।
ते इत्युपलक्षणार्थम्। तव ज्ञानिनोपि न फलकाम कर्तव्यता। किमु अन्येषाम्। नत्वस्ति केषाञ्चित् न ते अस्तीति।
स हि ज्ञानी नरांशः इन्द्रश्च। मोहादिस्तु अभिभवादेः। यदि तेषां शुद्धसत्त्वानां न स्यात् ज्ज्ञानम् क्व अन्येषाम्। उपदेशादेश्च सिद्धं ज्ञानं तेषाम्। 'पार्थार्ष्टिषेण' इत्यादि ज्ञानिगणनाच्च।
कामनिषेध एवात्र। फलानि ह्यस्वातन्त्र्येण भवन्ति। न हि कर्मफलानि कर्माभावे यत्नतो भवन्ति । भवन्ति च काम्यकर्मिणो विपर्ययप्रयत्ने पि अविरोधे।
अतः कर्माकरणे एव प्रत्यवायः। न तु ज्ञानादिना वा अकामनया फलाप्राप्तौ। अतः कर्मण्येवाधिकारः। अतस्तदेव कार्यम्। न तु कामेन ज्ञानादिनिषेधेन वा फलप्राप्तिः।कामवचनानां तात्पर्यं भगवत्यैव उक्तम्।
"रोचनार्थं फलश्रुतिः", "यथा भैषज्यरोचनम्"
इत्यादौ भागवते। अत एव "कामी यजेत" इत्यर्थः। न तु कामी भूत्वा इत्यर्थः। "निष्कामं ज्ञानपूर्वं च" इति वचनात्। (मनु १२-८९) वक्ष्यमाणेभ्यश्च ।
"वसन्ते वसन्ते ज्योतिषा यजेत" इत्यादिभ्यश्च। अतः मा कर्मफलहेतुर्भूः। कर्मफलं तत्कृतौ हेतुः यस्य सः कर्मफलहेतुः। सः मा भूः। तर्हि न करोमि इत्यत आह– 'मा ते' इति। कर्माकरणे स्नेहो मास्तु इत्यर्थः। अन्य फलाभावेपि मत्प्रसादाख्यफलभावात्।
इच्छा च तस्य युक्ता। "वृणीमहे ते परितोषणाय" इति महदाचारात् । अनिन्दनात् विशेषतः इतरनिन्दनाच्च। सामान्यं विशेषो बाधते इति च प्रसिद्धम् – "सर्वानानय नैकं मैत्रम्" इत्यादौ। अतः-
"नैकात्मतां मे स्पृहयन्ति केचित्", "भक्तिमन्विच्छन्तः", "ब्रह्मजिज्ञासा", "विज्ञाय प्रज्ञां कुर्वीत", "द्रष्टव्यः"
इत्यादि वचनेभ्यः। वार्थसेवकं प्रति न तथा स्नेहः किं ददामीत्युक्ते सेवादियाचकं प्रति बहुतरः स्नेहः इति लौकिकन्यायाच्च भक्तिज्ञानादिप्रार्थना कार्येति सिद्धम् ॥४७॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.