Bhagavad Gīta Bhāshya
B.G 2.42 and 43
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः। वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥२-४२॥
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्। क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥२-४३॥
Gīta Bhāshya 2.42 and 43
स्युरवैदिकानि मतानि अव्यवसायात्मकानि। नतु वैदिकानि। तेपि हि केचित् कर्माणि स्वर्गादिफलान्येवाहुः इत्यत आह– 'यामिमामिति'।
यामाहुः तया इत्यन्वयः। मोक्षफलम् अपेक्ष्य स्वर्गादिपुष्पयुक्तां वाचं प्रवदन्ति। वेदवादरताः कर्मादिवाचकवेदवादरताः । वेदैः यन्मुखतः उच्यते तत्रैव रताः। नान्यदस्तीति वादिनः।
"परोक्षविषया वेदाः", "परोक्षप्रिया इव हि देवाः", "मां विधत्ते- भिधत्ते मां"
- इत्यादिभिः पारोक्ष्येण प्रायो भगवन्तं वदन्ति।

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.