Bhagavad Gīta Bhāshya
B.G 2.18
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ २-१८॥
Gīta Bhāshya 2.18
भवतु देहस्यापि कस्यचिन्नित्यत्वमिति। नेत्याह– अन्तवन्त इति। अस्तु तर्हि दर्पणनाशात् प्रतिबिम्बनाशवदात्मनाश इत्यत आह– नित्यस्येति। 'शरीरिणः' इति ईश्वरव्यावृत्तये। नच नैमित्तिकनाश इत्याह– अनाशिन इति। कुतः? अप्रमेयेश्वरसरूपत्वात्। नह्युपाधिबिम्बसन्निध्यनाशे प्रतिबिम्बनाशः, सति च प्रदर्शके। स्वयमेवात्र प्रदर्शकः। चित्त्वात्। नित्यश्चोपाधिः कश्चिदस्ति॥
G.B 2.18.1
‘प्रतिपत्तौ विमोक्षस्य नित्योपाध्या स्वरूपया। चिद्रूपया युतो जीवः केशवप्रतिबिम्बकः।’ इति भगवद्वचनात् ॥१८॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.