Bhagavad Gīta Bhāshya
B.G 2.16
नासतो विद्यते भावो नाभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ २-१६॥
Gīta Bhāshya 2.16
'नित्य आत्मा' इत्युक्तम्। किमात्मैव नित्य आहोस्विदन्यदपि? अन्यदपि। तत्किमिति? आह–नासत इति॥
असतः कारणस्य सतः ब्रह्मणश्च अभावो न विद्यते॥
"प्रकृतिः पुरुषश्चैव नित्यौ कालश्च सत्तम" इति वचनात् श्रीविष्णुपुराणे।
पृथक् 'विद्यते' इत्यादरार्थः॥ असतः कारणत्वं च–
"सदसद्रूपया चासौ गुणमय्याऽगुणो विभुः" (भाग.१.२.३१) इति भागवते।
"असतः सदजायत" (ऋ.१०.७२.२)
इति च । अव्यक्तेश्च ।
सम्प्रदायतश्चैतत्सिद्धमित्याह– उभयोरपीति॥ अन्तः निर्णयः। ॥१६॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.