B.G 7.30 (*)
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेपि च मां ते विदुर्युक्तचेतसः॥३० ॥
[]
Gīta Bhāshya 7.30
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोध्यायः ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये सप्तमोध्यायः ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये सप्तमोध्यायः ॥
जरामरणमोक्षायेत्यन्यकामनिवृत्त्यर्थम् । मोक्षे सक्तिस्तुत्यर्थं वा । न विधिः ।
'मुमुक्षोरमुमुक्षुस्तु वरो ह्येकान्तभक्तिभाक्'' । इतीतरस्तुतेर्नारदीये ।
'नात्यन्तिकम्'' इति च ।
'देवानां गुणलिङ्गानामानुश्राविककर्मणाम् ।
सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ।
अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी ।
जरयत्याशु या कोशं निगीर्णमनलो यथा'' ॥ इति भागवते लक्षणाच्च ।
आह च- 'सर्वे वेदास्तु देवार्था देवा नारायणार्थकाः ।
नारायणस्तु मोक्षार्थे मोक्षो नान्यार्थ इष्यते ।
एवं मध्यमभक्तानामेकान्तानां न कस्यचित् ।
अर्थे नारायणो देवस्त्वन्यत् सर्वं तदर्थकम्'' ॥ इति गीताकल्पे ।
त एव च विदुः । 'यमेवैष वृणुते'' इति श्रुतेः ॥ २९, ३० ॥
Gīta Tātparya 7.30
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोध्यायः ॥
'तद् ब्रह्म'' इत्युक्तेन्यत्वाशङ्कां निवारयति साधिभूताधिदैवं मामिति ।
॥३० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये सप्तमोध्यायः ॥