Bhagavad Gīta Bhāshya and Tātparya
B.G 7.16 (*)
चतुर्विधा भजन्ते मां जनाः सुकृतिनोर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ॥१६ ॥
[]
O Arjuna, the righteous ones who worship me are of four kinds the afflicted, the seekers of knowledge, the seekers of wealth and the seekers of enlightened realization.
Gīta Bhāshya 7.16
तर्हि किमिति सर्वेपि नात्यायन्नित्यत आह - न मामिति । दुष्कृतित्वान्मूढाः । अत एव नराधमाः । अपहृतज्ञानत्वाच्च मूढाः । अत एवासुरं भावमाश्रिताः । स च वक्ष्यते- 'प्रवृत्तिं च निवृत्तिं च'' इत्यादिना । अपहारोभिभवः । उक्तं चैतद् व्यासयोगे- 'ज्ञानं स्वभावो जीवानां मायया ह्यभिभूयते'' इति । असुषु रता असुराः । तच्चोक्तं नारदीये- 'ज्ञानप्रधाना देवास्तु असुरास्तु रता असौ'' । इति ॥ १५, १६ ॥
Gīta Tātparya 7.16

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.